Menu

2 Timothy 4

DEV

1 ईश्वरस्य गोचरे यश्च यीशुः ख्रीष्टः स्वीयागमनकाले स्वराजत्वेन जीवतां मृतानाञ्च लोकानां विचारं करिष्यति तस्य गोचरे ऽहं त्वाम् इदं दृढम् आज्ञापयामि। 2 त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च। 3 यत एतादृशः समय आयाति यस्मिन् लोका यथार्थम् उपदेशम् असह्यमानाः कर्णकण्डूयनविशिष्टा भूत्वा निजाभिलाषात् शिक्षकान् संग्रहीष्यन्ति 4 सत्यमताच्च श्रोत्राणि निवर्त्त्य विपथगामिनो भूत्वोपाख्यानेषु प्रवर्त्तिष्यन्ते; 5 किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च। 6 मम प्राणानाम् उत्सर्गो भवति मम प्रस्थानकालश्चोपातिष्ठत्। 7 अहम् उत्तमयुद्धं कृतवान् गन्तव्यमार्गस्यान्तं यावद् धावितवान् विश्वासञ्च रक्षितवान्। 8 शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते। 9 त्वं त्वरया मत्समीपम् आगन्तुं यतस्व, 10 यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्। 11 केवलो लूको मया सार्द्धं विद्यते। त्वं मार्कं सङ्गिनं कृत्वागच्छ यतः स परिचर्य्यया ममोपकारी भविष्यति, 12 तुखिकञ्चाहम् इफिषनगरं प्रेषितवान्। 13 यद् आच्छादनवस्त्रं त्रोयानगरे कार्पस्य सन्निधौ मया निक्षिप्तं त्वमागमनसमये तत् पुस्तकानि च विशेषतश्चर्म्मग्रन्थान् आनय। 14 कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु। 15 त्वमपि तस्मात् सावधानास्तिष्ठ यतः सोऽस्माकं वाक्यानाम् अतीव विपक्षो जातः। 16 मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्; 17 किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः। 18 अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्। 19 त्वं प्रिष्काम् आक्किलम् अनीषिफरस्य परिजनांश्च नमस्कुरु। 20 इरास्तः करिन्थनगरे ऽतिष्ठत् त्रफिमश्च पीडितत्वात् मिलीतनगरे मया व्यहीयत। 21 त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते। 22 प्रभु र्यीशुः ख्रीष्टस्तवात्मना सह भूयात्। युष्मास्वनुग्रहो भूयात्। आमेन्।

Everything we make is available for free because of a generous community of supporters.

Donate