Menu

Acts 25

DEV

1 अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्। 2 तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त। 3 भवान् तं यिरूशालमम् आनेतुम् आज्ञापयत्विति विनीय ते तस्माद् अनुग्रहं वाञ्छितवन्तः। 4 यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि। 5 ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्। 6 दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्। 7 पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः। 8 ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्। 9 किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि? 10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति। 11 कञ्चिदपराधं किञ्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतोऽभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु। 12 तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि। 13 कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ। 14 तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्। 15 यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज्ञां प्रार्थयन्त। 16 ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि। 17 ततस्तेष्वत्रागतेषु परस्मिन् दिवसेऽहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज्ञापयम्। 18 तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं कञ्चन महापवादं नोत्थाप्य 19 स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः। 20 ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि? 21 तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्। 22 तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि। 23 परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज्ञया पौल आनीतोऽभवत्। 24 तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत। 25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्। 26 किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये। 27 यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि।

Everything we make is available for free because of a generous community of supporters.

Donate