Menu

Ephesians 3

DEV

1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि। 2 युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये। 3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं। 4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते। 5 पूर्व्वयुगेषु मानवसन्तानास्तं ज्ञापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितोऽभवत्; 6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं, 7 तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति। 8 सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि, 9 कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि। 10 यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्। 11 यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्यञ्च 12 प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्। 13 अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं। 14 अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम् 15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये। 16 तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां। 17 ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु। 18 इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां, 19 ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च। 20 अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति 21 ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।

Everything we make is available for free because of a generous community of supporters.

Donate