Menu

Luke 24

DEV

1 अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः। 2 किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा 3 ताः प्रविश्य प्रभो र्देहमप्राप्य 4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ 5 तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ? 6 सोत्र नास्ति स उदस्थात्। 7 पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत। 8 तदा तस्य सा कथा तासां मनःसु जाता। 9 अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः। 10 मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः 11 किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्। 12 तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे। 13 तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ 14 तासां घटनानां कथामकथयतां 15 तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम 16 किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा। 17 स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः? 18 ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि? 19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत् 20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः; 21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता।तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं। 22 अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं; 23 ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्। 24 ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्। 25 तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ; 26 एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या? 27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास। 28 अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते 29 तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ। 30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ। 31 तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे। 32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्? 33 तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं। 34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च। 35 ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते। 36 इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच, 37 किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च। 38 स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः? 39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति। 40 इत्युक्त्वा स हस्तपादान् दर्शयामास। 41 तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति? 42 ततस्ते कियद्दग्धमत्स्यं मधु च ददुः 43 स तदादाय तेषां साक्षाद् बुभुजे 44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्। 45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्, 46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति; 47 तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः, 48 एषु सर्व्वेषु यूयं साक्षिणः। 49 अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत। 50 अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे 51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्। 52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः। 53 ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

Everything we make is available for free because of a generous community of supporters.

Donate